समासप्रकरणाधारितानि लघुप्रश्नोत्तराणि

प्रश्न 1. समासस्य परिभाषां लिखत।                                     उत्तर,,अनेकपदानाम् एकपदीभवनम् समासः । 

प्रश्न 2. समासस्य मुख्यतः कति भेदाः सन्ति ?
 उत्तर-चत्वारः।

 प्रश्न 3. विग्रहः किं भवति ?
 उत्तर-समासस्य अर्थावबोधकं वाक्यविग्रहः।

 प्रश्न 4. सन्धि-समासयोः कः भेदः ?
 उत्तर-सन्धौ वर्णानां मेलनं भवति समासे च पदानाम् (शब्दानाम्) ।

 प्रश्न 5. पूर्वपदार्थप्रधानः कः समासः भवति ?
 उत्तर-अव्ययीभावः।

 प्रश्न 6. तत्पुरुषसमासस्य का परिभाषा ? 
उत्तर-उत्तरपदार्थप्रधानः तत्पुरुषः ।

प्रश्न 7. द्वन्द्वे कस्य पदस्य प्राधान्यं भवति ?
उत्तर-उभयोः।

प्रश्न 8. अन्यपदार्थप्रधानः कः समासः भवति ?
उत्तर-बहुव्रीहिः।

प्रश्न 9. संख्यापूर्वी,,,,,,,,,,,,रिक्तस्थानं पूरयत।
उत्तर -द्विगुः।

प्रश्न 10. "चार्थे" कः समासः भवति ?
उत्तर-द्वन्द्वः।

प्रश्न 11. "कर्मधारयः समासः" कस्य समासस्य भेदः ?
उत्तर-तत्पुरुषस्य।

प्रश्न 12. नञ् समासः कस्य समासस्य उपभेदः वर्तते ?
उत्तर-तत्पुरुषस्य।

प्रश्न 13. "पितरौ" इत्यत्र कः समासः ?
उत्तर -एकशेषद्वन्द्वः।

प्रश्न 14. अव्ययीभावे समस्तपदे किं लिगं प्रयुज्यते ?
उत्तर -नपुंसकलिंगम्।

प्रश्न 15. यत् शब्दस्य प्रयोगः कस्मिन् समासे भवति।
उत्तर -बहुव्रीहिसमासे।

प्रश्न 16. अधोलिखतु कस्मिन् पदे अलुक् तत्पुरुषसमास: नास्ति।
(क) अल्पान्मुक्तः
(ख) आचारनिपुणः
(ग) स्तोकान्मुक्तः
(घ) युधिष्ठिरः।
उत्तर-(ख) आचारनिपुणः ।

प्रश्न 17. येषां च विरोधः शास्वतिकः तेषु कः समासः भवति ?
उत्तर-समाहारद्वन्द्वः।

प्रश्न 18. "चत्वारि आननाणि यस्य सः" इत्यत्र कः समासः।
उत्तर-“यस्य" पदस्य प्रयोगात् बहुव्रीहिसमासः ।

प्रश्न 19. समासस्य उद्देश्य लिखत।
उत्तर-श्रमलाघवं भाषायाः परिपक्वता च।

प्रश्न 20. इन्द्रः च वरुणः च इत्यस्य समस्तपदं लिखत।
उत्तर -इन्द्रावरुणौ।

Comments

  1. This comment has been removed by the author.

    ReplyDelete
  2. This comment has been removed by the author.

    ReplyDelete

Post a Comment

Popular posts from this blog

ईशावास्योपनिषद 18 मंत्र

महाकवि दण्डी का व्यक्तित्व एवं कृतित्व जीवन-चरित-

भर्तृहरि की रचनाएँ