संस्कृत व्याकरण संबंधित प्रश्नोत्तरी
प्रश्न 1. लघुसिद्धान्तकौमुदी कस्य रचना अस्ति ?
उत्तर-वरदराजस्य।
प्रश्न 2. वरदराजस्य व्याकरण सम्बन्धी द्वितीय रचना का अस्ति ?
उत्तर-मध्यसिद्धान्तकौमुदी।
प्रश्न 3. "अष्टाध्यायी" केन विरचिता ?
उत्तर-महर्षिपाणिना।
प्रश्न 4. "ऐऔच्" तथा च "लण्" एतयोः सूत्रयोः मध्ये क: प्रत्याहार सूत्रः आगच्छति।
उत्तर-हयवरट् ।
प्रश्न 5. अइउण्, ऋल्क् इत्यादि सूत्राणां सन्दर्भे अधोलिखितेषु किं नाम समीचीनं न अस्ति =
(ख) वर्णसमाम्नायम्
(घ) वरदराजसूत्राणि ।
(क) अक्षरसमाम्नायम्
(ग) माहेश्वरसूत्राणि
उत्तर-(घ) वरदराजसूत्राणि।
प्रश्न 6. हलन्त अक्षराणि विहाय माहेश्वर सूत्रेषु क: वर्णः बारद्वयम् आगतः
उत्तर-"ह" वर्ण: ।
प्रश्न 7. "अच्" प्रत्याहारान्गतं के वर्णा: आगच्छन्ति ?
उत्तर-स्वरा: ! यथा-अ, इ, उ, ऋ, लू, ए, ओ, ऐ, औ।
प्रश्न 8. "यण्" प्रत्याहारे के वर्णाः आपतन्ति ?
उत्तर-य, व, र, ल,
प्रश्न 9. माहेश्वरसूत्राणि कति सन्ति ?
उत्तर -चतुर्दश।
10.माहेश्वरसूत्रैः कति प्रत्याहाराणि निर्मीयन्ते ?
उत्तर-द्विचत्वारिंशत् (42)
प्रश्न 11."इत् संज्ञा" विधायकं सूत्रं लिखत ?
उत्तर-"हलन्त्यम्"
प्रश्न 12. "लोपसंज्ञा" विधायकं सूत्रं लिखत।
उत्तर-अदर्शनं लोपः
प्रश्न 13. हस्वदीर्घ एवं प्लुतसंज्ञा विधायक सूत्रं लिखत।
उत्तर-"ऊकालोऽऽहस्व दीर्घ-प्लुत: ।"
प्रश्न 14. उदात्तसंज्ञा विधायकं सूत्रं लिखत।
उत्तर-उच्चैरूदात्तः।
प्रश्न 15. संहिता-संज्ञा विधायकं सूत्रं लिखत।
उत्तर- पर: सन्निकर्षः संहिता।
प्रश्न 16. तालु केषां वर्णानामुच्चारणस्थानं भवति ?
-इचुयशानां तालुः। (इ, ई, च, छ, ज, झू, ज्, य्, श)
प्रश्न 17. "घ" वर्णस्य उच्चारणस्थानं लिखत।
उत्तर-कण्ठः।
प्रश्न 18. "ण" वर्णस्य के द्वे उच्चारणस्थाने भवत: ?
-मूर्धा नासिका च।
प्रश्न 19. उदात्तः अनुदात्तः, स्वरितश्च केषां स्वराणां भेदाः सन्ति ?
उत्तर-वैदिकस्वराणाम् ।
प्रश्न 20. उच्चारणदृष्ट्याः म कीदृशी ध्वनिः मन्यते ?
उत्तर-नासिक्य।
प्रश्न 21. उच्चारणदृष्ट्याः "ट" कीदृशी ध्वनिः ?
उत्तर-मूर्धन्य।
प्रश्न 22. वर्णोंच्चारणप्रयत्नाः कतिविधाः भवन्ति ?
उत्तर-द्विविधा (आभ्यन्तरप्रयत्नः बाह्यश्च)
प्रश्न 23. के वर्णाः स्पर्शाः कथ्यन्ते ?
उत्तर-कतः आरभ्यमपर्यन्तम् (कादयोमावसानाः स्पर्शाः) ।
प्रश्न 24. आभ्यन्तरप्रयत्नं कतिविधां भवति ?
उत्तर-पञ्चविधः।
प्रश्न 25. बाह्यप्रयत्नः कतिविधः भवति ?
उत्तर-एकादशविधः।
प्रश्न 26. स्वराणामाभ्यन्तरप्रयत्नं लिखत।
उत्तर-विवृतम्।
प्रश्न 27. वाक्ये कर्ता क: भवति ?
उत्तर-क्रियायाः सम्पादक:।
प्रश्न 28. कर्तृवाच्ये कर्तरि का विभक्ति: प्रयुज्यते ?
उत्तर-प्रथमा।
प्रश्न 29 कर्तृवाच्ये क्रिया कमनुसरति कर्तारं वा कर्म वा ?
उत्तर-कर्तारम् ।
प्रश्न 30. कर्मवाच्ये कर्तरि का विभक्तिः प्रयुज्यते ?
उत्तर-तृतीया।
प्रश्न 31. कर्तृवाच्ये कर्मणि का विभक्ति: प्रयुज्यते ?
उत्तर-द्वितीया।
प्रश्न 32. कर्मवाच्ये कर्मणि का विभक्तिः प्रयुज्यते ?
उत्तर-प्रथमा।
प्रश्न 33. क्रियायाः मूलरूपं संस्कृतभाषायां किं कथ्यते ?
उत्तर-धातुः।
प्रश्न 34. संस्कृतभाषायां लकाराः कति सन्ति ?
उत्तर-दश।
प्रश्न 35. संस्कृतभाषायां गणा: कति सन्ति ?
उत्तर-दश।
प्रश्न 36. आज्ञार्थे कः लकारः प्रयुज्यते ?
उत्तर-लोट् लकार:।
प्रश्न 37. अनद्यतनभूते क: लकारः प्रयुज्यते ?
उत्तर-लङ्लकारः ।
प्रश्न 38, राजन् शब्दस्य तृतीया विभक्तौ रूपाणि लिखत।
उत्तर-राज्ञा राजभ्याम् राजभिः ।
प्रश्न 39. "अङ्गविकारे" संस्कृतभाषायां का विभक्ति: प्रयुज्यते ?
उत्तर-तृतीया।
प्रश्न 40. "नम:" उपपदस्य योगे संस्कृतभाषायां का विभक्तिः प्रयुज्यते ?
उत्तर-चतुर्थी।
प्रश्न 41. द्विकर्मकधातवः कति भवन्ति ?
उत्तर-षोडश।
प्रश्न 42. वामन: बलिं याचते वसुधाम्। इत्यत्र गौणकर्म किमस्ति ?
उत्तर-बलिम् (वसुधा च प्रधान कर्म)
प्रश्न 43. "सह् + तुमुन्" इत्यस्य किं रूपम् भविष्यति ?
-सोढुम्।
प्रश्न 44. "प्रच्छ् + क्त्वा" प्रच्छ् धातोः क्त्वानुरूपं लिखत।
उत्तर-पृष्ट्वा।
प्रश्न 45. पठ् + धातोः ल्युडन्तं रूपं लिखत।
प्रश्न 46. चल् धातोः ण्वुल् प्रत्ययान्तं रूपं किं सम्पत्स्यते ?
उत्तर-चालक:।
प्रश्न 47. "गृहीतवान्" इत्यस्य प्रकृति प्रत्ययं च पृथक् कुरूत।
उत्तर-ग्रह + क्तवतु ।
प्रश्न 48. कविः शब्दस्य प्रथमाविभक्तौ द्विवचनान्तां रूपं लिखत।
उत्तर-कवी।
प्रश्न 49. "सभी नीरोग रहे" इत्यस्य कृते संस्कृतसूक्तिं लिखत।
उत्तर-सर्वे सन्तु निरामया:।
simran devi
ReplyDelete1901hi077
major Hindi
2nd year
Anu bala 1801hi058
ReplyDeleteShaveta kaler 1901 hi058
ReplyDeleteShaweta choudhary
ReplyDelete1901hi038
Tanu Bala 1901hi079
ReplyDeleteShweta kumari 1901hi011
ReplyDeletePooja Devi
ReplyDelete1901HI029
Sonia Dadwal
ReplyDelete1901HI012
ReplyDeletePriyanka
roll number 1901hi059
Hindi major
Kalpna choudhary Roll no 1901Hi065
ReplyDeleteshikha manhas 1901hi072
ReplyDeleteManisha 1901hi054
ReplyDeleteRiya sharma
ReplyDelete1901hi002
Ishita
ReplyDelete1901HI070