✡️संस्कृत साहित्य प्रश्नोत्तरी ✡️ ,,भाग 15
प्रश्न 1. लघुसिद्धान्तकौमुदी कस्य रचना अस्ति ?
उत्तर-वरदराजस्य।
प्रश्न 2. वरदराजस्य व्याकरण सम्बन्धी द्वितीय रचना का अस्ति ?
उत्तर-मध्यसिद्धान्तकौमुदी।
प्रश्न 3. "अष्टाध्यायी" केन विरचिता ?
उत्तर-महर्षिपाणिना।
प्रश्न 4. "ऐऔच्" तथा च "लण्" एतयोः सूत्रयोः मध्ये क: प्रत्याहार सूत्रः आगच्छति।
उत्तर-हयवरट् ।
प्रश्न 5. अइउण्, ऋल्क् इत्यादि सूत्राणां सन्दर्भे अधोलिखितेषु किं नाम समीचीनं न अस्ति =
(ख) वर्णसमाम्नायम्
(घ) वरदराजसूत्राणि ।
(क) अक्षरसमाम्नायम्
(ग) माहेश्वरसूत्राणि
उत्तर-(घ) वरदराजसूत्राणि।
प्रश्न 6. हलन्त अक्षराणि विहाय माहेश्वर सूत्रेषु क: वर्णः बारद्वयम् आगतः
उत्तर-"ह" वर्ण: ।
प्रश्न 7. "अच्" प्रत्याहारान्गतं के वर्णा: आगच्छन्ति ?
उत्तर-स्वरा: ! यथा-अ, इ, उ, ऋ, लू, ए, ओ, ऐ, औ।
प्रश्न 8. "यण्" प्रत्याहारे के वर्णाः आपतन्ति ?
उत्तर-य, व, र, ल,
प्रश्न 9. माहेश्वरसूत्राणि कति सन्ति ?
उत्तर -चतुर्दश।
10.माहेश्वरसूत्रैः कति प्रत्याहाराणि निर्मीयन्ते ?
उत्तर-द्विचत्वारिंशत् (42)
प्रश्न 11."इत् संज्ञा" विधायकं सूत्रं लिखत ?
उत्तर-"हलन्त्यम्"
प्रश्न 12. "लोपसंज्ञा" विधायकं सूत्रं लिखत।
उत्तर-अदर्शनं लोपः
प्रश्न 13. हस्वदीर्घ एवं प्लुतसंज्ञा विधायक सूत्रं लिखत।
उत्तर-"ऊकालोऽऽहस्व दीर्घ-प्लुत: ।"
प्रश्न 14. उदात्तसंज्ञा विधायकं सूत्रं लिखत।
उत्तर-उच्चैरूदात्तः।
प्रश्न 15. संहिता-संज्ञा विधायकं सूत्रं लिखत।
उत्तर- पर: सन्निकर्षः संहिता।
प्रश्न 16. तालु केषां वर्णानामुच्चारणस्थानं भवति ?
-इचुयशानां तालुः। (इ, ई, च, छ, ज, झू, ज्, य्, श)
प्रश्न 17. "घ" वर्णस्य उच्चारणस्थानं लिखत।
उत्तर-कण्ठः।
प्रश्न 18. "ण" वर्णस्य के द्वे उच्चारणस्थाने भवत: ?
-मूर्धा नासिका च।
प्रश्न 19. उदात्तः अनुदात्तः, स्वरितश्च केषां स्वराणां भेदाः सन्ति ?
उत्तर-वैदिकस्वराणाम् ।
प्रश्न 20. उच्चारणदृष्ट्याः म कीदृशी ध्वनिः मन्यते ?
उत्तर-नासिक्य।
प्रश्न 21. उच्चारणदृष्ट्याः "ट" कीदृशी ध्वनिः ?
उत्तर-मूर्धन्य।
प्रश्न 22. वर्णोंच्चारणप्रयत्नाः कतिविधाः भवन्ति ?
उत्तर-द्विविधा (आभ्यन्तरप्रयत्नः बाह्यश्च)
प्रश्न 23. के वर्णाः स्पर्शाः कथ्यन्ते ?
उत्तर-कतः आरभ्यमपर्यन्तम् (कादयोमावसानाः स्पर्शाः) ।
प्रश्न 24. आभ्यन्तरप्रयत्नं कतिविधां भवति ?
उत्तर-पञ्चविधः।
प्रश्न 25. बाह्यप्रयत्नः कतिविधः भवति ?
उत्तर-एकादशविधः।
प्रश्न 26. स्वराणामाभ्यन्तरप्रयत्नं लिखत।
उत्तर-विवृतम्।
प्रश्न 27. वाक्ये कर्ता क: भवति ?
उत्तर-क्रियायाः सम्पादक:।
प्रश्न 2. कर्तृवाच्ये कर्तरि का विभक्ति: प्रयुज्यते ?
उत्तर-प्रथमा।
प्रश्न 3. कर्तृवाच्ये क्रिया कमनुसरति कर्तारं वा कर्म वा ?
उत्तर-कर्तारम् ।
प्रश्न 4. कर्मवाच्ये कर्तरि का विभक्तिः प्रयुज्यते ?
उत्तर-तृतीया।
प्रश्न 5. कर्तृवाच्ये कर्मणि का विभक्ति: प्रयुज्यते ?
उत्तर-द्वितीया।
प्रश्न 6. कर्मवाच्ये कर्मणि का विभक्तिः प्रयुज्यते ?
उत्तर-प्रथमा।
प्रश्न 7. क्रियायाः मूलरूपं संस्कृतभाषायां किं कथ्यते ?
उत्तर-धातुः।
प्रश्न 8. संस्कृतभाषायां लकाराः कति सन्ति ?
उत्तर-दश।
प्रश्न 9. संस्कृतभाषायां गणा: कति सन्ति ?
उत्तर-दश।
प्रश्न 10. आज्ञार्थे कः लकारः प्रयुज्यते ?
उत्तर-लोट् लकार:।
प्रश्न 11. अनद्यतनभूते क: लकारः प्रयुज्यते ?
उत्तर-लङ्लकारः ।
प्रश्न 12. राजन् शब्दस्य तृतीया विभक्तौ रूपाणि लिखत।
उत्तर-राज्ञा राजभ्याम् राजभिः ।
प्रश्न 19. "अङ्गविकारे" संस्कृतभाषायां का विभक्ति: प्रयुज्यते ?
उत्तर-तृतीया।
प्रश्न 20. "नम:" उपपदस्य योगे संस्कृतभाषायां का विभक्तिः प्रयुज्यते ?
उत्तर-चतुर्थी।
प्रश्न 21. द्विकर्मकधातवः कति भवन्ति ?
उत्तर-षोडश।
प्रश्न 22. वामन: बलिं याचते वसुधाम्। इत्यत्र गौणकर्म किमस्ति ?
उत्तर-बलिम् (वसुधा च प्रधान कर्म)
प्रश्न 23. "सह् + तुमुन्" इत्यस्य किं रूपम् भविष्यति ?
-सोढुम्।
प्रश्न 24. "प्रच्छ् + क्त्वा" प्रच्छ् धातोः क्त्वानुरूपं लिखत।
उत्तर-पृष्ट्वा।
प्रश्न 25. पठ् + धातोः ल्युडन्तं रूपं लिखत।
प्रश्न 26. चल् धातोः ण्वुल् प्रत्ययान्तं रूपं किं सम्पत्स्यते ?
उत्तर-चालक:।
प्रश्न 27. "गृहीतवान्" इत्यस्य प्रकृति प्रत्ययं च पृथक् कुरूत।
उत्तर-ग्रह + क्तवतु ।
प्रश्न 28. कृ धातोः
उत्तर-करोषि कुरूथः कुरूथ।
प्रश्न 29. कविः शब्दस्य प्रथमाविभक्तौ द्विवचनान्तां रूपं लिखत।
उत्तर-कवी।
प्रश्न 30. "सभी नीरोग रहे" इत्यस्य कृते संस्कृतसूक्तिं लिखत।
उत्तर-सर्वे सन्तु निरामया:।
Comments
Post a Comment