6 से 10 श्लोक

 आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया ।                       मनः कायाग्निमाहन्ति सः प्रेरयति मारुतम् ॥ ६॥

मारुस्तूरसिचरन्मन्द्रं जनयति स्वरम् ।
प्रातःसवनयोगं तं छन्दो गायत्रमाश्रितम् ॥ ७॥

कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम् ।
तारं तार्तीयसवनं शीर्षण्यं जागतानुगतम् ॥ ८॥

सोदीर्णो मूर्ध्न्यभिहतो वक्रमापद्य मारुतः ।
वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ॥ ९॥

स्वरतः कालतः स्थानात्प्रयत्नादनुप्रदानतः ।
इति वर्णविदः प्राहुर्निपुणं तन्निबोधत ॥ १०॥

Comments

Popular posts from this blog

ईशावास्योपनिषद 18 मंत्र

महाकवि दण्डी का व्यक्तित्व एवं कृतित्व जीवन-चरित-

भर्तृहरि की रचनाएँ